Sukta 2.14
अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् । यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥
अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सम् । यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत ॥
ádhvaryavo yáḥ svaśnáṃ jaghā́na yáḥ śúṣṇam aśúṣaṃ yó vyàṃsam | yáḥ pípruṃ námuciṃ yó rudhi-krā́ṃ tásmā indrā́yā́ndhaso juhota ||
O Adhvaryus, he who smote Svaśna, he who slew Śuṣṇa the drought, and Vyaṃsa; he who struck Pipru, Namuci, and Rudhi-krā—offer to that Indra the pressed essence of Soma.
अध्व॑र्यवः । यः । सु । अश्न॑म् । ज॒घान॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । यः । विऽअं॑सम् । यः । पिप्रु॑म् । नमु॑चिम् । यः । रु॒धि॒ऽक्राम् । तस्मै॑ । इन्द्रा॑य । अन्ध॑सः । जु॒हो॒त॒ ॥अध्वर्यवः । यः । सु । अश्नम् । जघान । यः । शुष्णम् । अशुषम् । यः । विअंसम् । यः । पिप्रुम् । नमुचिम् । यः । रुधिक्राम् । तस्मै । इन्द्राय । अन्धसः । जुहोत ॥adhvaryavaḥ | yaḥ | su | aśnam | jaghāna | yaḥ | śuṣṇam | aśuṣam | yaḥ | vi-aṃsam | yaḥ | piprum | namucim | yaḥ | rudhi-krām | tasmai | indrāya | andhasaḥ | juhota