Sukta 2.14
अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् । यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत ॥
अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् । यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥
ádhvaryavo yá uraṇáṃ jaghā́na náva ca cakhvā́ṃsaṃ navatíṃ ca bāhū́n | yó árbudam áva nīcā́ babā́dhe tám índraṃ sómasya bhṛthé hinota ||
O Adhvaryus, he who smote Uraṇa, and the nine Cakhvāṃsas and the ninety arms; he who thrust down Arbuda low beneath—impel that Indra forward in the bearing of Soma.
अध्व॑र्यवः । यः । उर॑णम् । ज॒घान॑ । नव॑ । च॒ख्वांस॑म् । न॒व॒तिम् । च॒ । बा॒हून् । यः । अर्बु॑दम् । अव॑ । नी॒चा । ब॒बा॒धे । तम् । इन्द्र॑म् । सोम॑स्य । भृ॒थे । हि॒नो॒त॒ ॥अध्वर्यवः । यः । उरणम् । जघान । नव । चख्वांसम् । नवतिम् । च । बाहून् । यः । अर्बुदम् । अव । नीचा । बबाधे । तम् । इन्द्रम् । सोमस्य । भृथे । हिनोत ॥adhvaryavaḥ | yaḥ | uraṇam | jaghāna | nava | cakhvāṃsam | navatim | ca | bāhūn | yaḥ | arbudam | ava | nīcā | babādhe | tam | indram | somasya | bhṛthe | hinota