Sukta 2.14
अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः । तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥
अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः । तस्मा॑ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रै॑: ॥
ádhvaryavo yó dṛbhī́kaṃ jaghā́na yó gā́ udā́jad ápa hí valáṃ vaḥ | tásmā etám antárikṣe ná vā́tam índraṃ sómair ūrṇuta jū́r ná vastráiḥ ||
O Adhvaryus, he who smote Dṛbhīka, he who drove forth the Rays (cows) and cast away the cave of Vala for you—clothe that Indra with Soma as the mid-region is clothed with wind, as a swift one with garments.
अध्व॑र्यवः । यः । दृभी॑कम् । ज॒घान॑ । यः । गाः । उ॒त्ऽआज॑त् । अप॑ । हि । व॒लम् । वरिति॒ वः । तस्मै॑ । ए॒तम् । अ॒न्तरि॑क्षे । न । वात॑म् । इन्द्र॑म् । सोमैः॒ । आ । ऊ॒र्णु॒त॒ । जूः । न । वस्त्रैः॑ ॥अध्वर्यवः । यः । दृभीकम् । जघान । यः । गाः । उत्आजत् । अप । हि । वलम् । वरिति वः । तस्मै । एतम् । अन्तरिक्षे । न । वातम् । इन्द्रम् । सोमैः । आ । ऊर्णुत । जूः । न । वस्त्रैः ॥adhvaryavaḥ | yaḥ | dṛbhīkam | jaghāna | yaḥ | gāḥ | ut-ājat | apa | hi | valam | varitivaḥ | tasmai | etam | antarikṣe | na | vātam | indram | somaiḥ | ā | ūrṇuta | jūḥ | na | vastraiḥ