Sukta 2.14
अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् । तस्मा एतं भरत तद्वशायँ एष इन्द्रो अर्हति पीतिमस्य ॥
अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षम् । तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो॑ अर्हति पी॒तिम॑स्य ॥
ádhvaryavo yó apó vavrivā́ṃsaṃ vṛtráṃ jaghā́nā́śanyèva vṛkṣám | tásmā etáṃ bharata tád-vaśāyaṃ eṣá índro arhati pītím asya ||
O Adhvaryus, he who smote Vṛtra who had enveloped the waters, as a thunderbolt fells a tree—bring for him this Soma, obedient to that will; this Indra deserves the drinking of it.
अध्व॑र्यवः । यः । अ॒पः । व॒व्रि॒वांस॑म् । वृ॒त्रम् । ज॒घान॑ । अ॒शन्या॑ऽइव । वृ॒क्षम् । तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शाय॑ । ए॒षः । इन्द्रः॑ । अ॒र्ह॒ति॒ । पी॒तिम् । अ॒स्य॒ ॥अध्वर्यवः । यः । अपः । वव्रिवांसम् । वृत्रम् । जघान । अशन्याइव । वृक्षम् । तस्मै । एतम् । भरत । तत्वशाय । एषः । इन्द्रः । अर्हति । पीतिम् । अस्य ॥adhvaryavaḥ | yaḥ | apaḥ | vavrivāṃsam | vṛtram | jaghāna | aśanyāiva | vṛkṣam | tasmai | etam | bharata | tat-vaśāya | eṣaḥ | indraḥ | arhati | pītim | asya