Sukta 2.14
अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः । कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥
अध्व॑र्यवो॒ भर॒तेन्द्रा॑य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्ध॑: । का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥
ádhvaryavo bháraténdrāya sómam ā́ amátrebhiḥ siñcatā mádyaṃ ándhaḥ | kāmī́ hí vīráḥ sádam asya pītíṃ juhóta vṛ́ṣṇe tád íd eṣá vaṣṭi ||
O Adhvaryus, bring the Soma to Indra; with the pressing-vessels pour out the intoxicating essence. For the Hero is ever a lover of this drinking: offer it to the Bull; this indeed is what he chooses and wills.
अध्व॑र्यवः । भर॑त । इन्द्रा॑य । सोम॑म् । आ । अम॑त्रेभिः । सि॒ञ्च॒त॒ । मद्य॑म् । अन्धः॑ । का॒मी । हि । वी॒रः । सद॑म् । अ॒स्य॒ । पी॒तिम् । जु॒होत॑ । वृष्णे॑ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥अध्वर्यवः । भरत । इन्द्राय । सोमम् । आ । अमत्रेभिः । सिञ्चत । मद्यम् । अन्धः । कामी । हि । वीरः । सदम् । अस्य । पीतिम् । जुहोत । वृष्णे । तत् । इत् । एषः । वष्टि ॥adhvaryavaḥ | bharata | indrāya | somam | ā | amatrebhiḥ | siñcata | madyam | andhaḥ | kāmī | hi | vīraḥ | sadam | asya | pītim | juhota | vṛṣṇe | tat | it | eṣaḥ | vaṣṭ i