Sukta 2.14
अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥
अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ । तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥
adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā | tam ūrdaraṁ na pṛṇatā yavene ndraṁ somebhis tad apo vo astu ||
O Adhvaryus, he who is king of the heavenly riches and king of the earthly and grounded realm—fill that Indra as one fills a swelling storehouse, with grain and with Soma; let that work be your effective means (your ‘waters’ of accomplishment).
अध्व॑र्यवः । यः । दि॒व्यस्य॑ । वस्वः॑ । यः । पार्थि॑वस्य । क्षम्य॑स्य । राजा॑ । तम् । ऊर्द॑रम् । न । पृ॒ण॒त॒ । यवे॑न । इन्द्र॑म् । सोमे॑भिः । तत् । अपः॑ । वः॒ । अ॒स्तु॒ ॥अध्वर्यवः । यः । दिव्यस्य । वस्वः । यः । पार्थिवस्य । क्षम्यस्य । राजा । तम् । ऊर्दरम् । न । पृणत । यवेन । इन्द्रम् । सोमेभिः । तत् । अपः । वः । अस्तु ॥adhvaryavaḥ | yaḥ | divyasya | vasvaḥ | yaḥ | pārthivasya | kṣamyasya | rājā | tam | ūrdaram | na | pṛṇata | yavena | indram | somebhiḥ | tat | apaḥ | vaḥ | astu