Sukta 2.14
अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् । वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत ॥
अध्व॑र्यव॒: पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् । वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स॑न्तं॒ भूयो॑ यज॒तश्चि॑केत ॥
adhvaryavaḥ payasodhar yathā goḥ somebhir īṁ pṛṇata bhojam indram | vedāham asya nibhṛtaṁ ma etad ditsantaṁ bhūyo yajataś ciketa ||
O Adhvaryus, as one fills the udder of the Cow with its milk, so with Soma-powers fill Indra the Enjoyer. I know this secret held within him—he who would give; therefore, worship again and learn to discern (his working).
अध्व॑र्यवः । पय॑सा । ऊधः॑ । यथा॑ । गोः । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् । वेद॑ । अ॒हम् । अ॒स्य॒ । निऽभृ॑तम् । मे॒ । ए॒तत् । दित्स॑न्तम् । भूयः॑ । य॒ज॒तः । चि॒के॒त॒ ॥अध्वर्यवः । पयसा । ऊधः । यथा । गोः । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् । वेद । अहम् । अस्य । निभृतम् । मे । एतत् । दित्सन्तम् । भूयः । यजतः । चिकेत ॥adhvaryavaḥ | payasā | ūdhaḥ | yathā | goḥ | somebhiḥ | īm | pṛṇata | bhojam | indram | veda | aham | asya | ni-bhṛtam | me | etat | ditsantam | bhūyaḥ | yajataḥ | ciketa