Sukta 2.14
अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् । इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥
अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒: सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् । इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥
asmabhyaṁ tad vaso dānāya rādhaḥ samarthayasva bahu te vasavyam | indra yac citraṁ śravasyā anu dyūn bṛhad vadema vidathe su-vīrāḥ ||
For us, O Lord of the riches, make ready that power of giving—your abundant wealth of being. O Indra, so that through the days we may speak the vast and luminous word of fame in the assemblies, becoming full of heroic force.
अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् । इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥अस्मभ्यम् । तत् । वसो इति । दानाय । राधः । सम् । अर्थयस्व । बहु । ते । वसव्यम् । इन्द्र । यत् । चित्रम् । श्रवस्याः । अनु । द्यून् । बृहत् । वदेम । विदथे । सुवीराः ॥asmabhyam | tat | vaso iti | dānāya | rādhaḥ | sam | arthayasva | bahu | te | vasavyam | indra | yat | citram | śravasyāḥ | anu | dyūn | bṛhat | vadema | vidathe | su-vīrāḥ