Sukta 2.12
यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते । यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्र॑: ॥
yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante | yo viśvasya pratimānaṃ babhūva yo acyuta-cyut sa janāsa indraḥ ||
Without whom men do not win; whom, when they struggle, they call for help; who has become the measure and standard of the whole; who makes even the ‘unshaken’ fall—he, O peoples, is Indra.
यस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑सः । यम् । युध्य॑मानाः । अव॑से । हव॑न्ते । यः । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । यः । अ॒च्यु॒त॒ऽच्युत् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यस्मात् । न । ऋते । विजयन्ते । जनासः । यम् । युध्यमानाः । अवसे । हवन्ते । यः । विश्वस्य । प्रतिमानम् । बभूव । यः । अच्युतच्युत् । सः । जनासः । इन्द्रः ॥yasmāt | na | ṛte | vi-jayante | janāsaḥ | yam | yudhyamānāḥ | avase | havante | yaḥ | viśvasya | prati-mānam | babhūva | yaḥ | acyuta-cyut | saḥ | janāsaḥ | indraḥ