Sukta 2.12
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः । समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्रा॑: । स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्र॑: ॥
yaṃ krandasī saṃyatī vihvayete pare’vare ubhayā amitrāḥ | samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ ||
He whom the two resounding powers (the opposed fields of consciousness) in their clash invoke—both the higher and the lower hostile forces; even when they mount the same chariot (the one human instrument), they call him in different ways: he, O peoples, is Indra.
यम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भयाः॑ । अ॒मित्राः॑ । स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यम् । क्रन्दसी इति । संयती इति सम्यती । विह्वयेते इति विह्वयेते । परे । अवरे । उभयाः । अमित्राः । समानम् । चित् । रथम् । आतस्थिवांसा । नाना । हवेते इति । सः । जनासः । इन्द्रः ॥yam | krandasī iti | saṃyatī itisam-yatī | vihvayeteitivi-hvayete | pare | avare | ubhayāḥ | amitrāḥ | samānam | cit | ratham | ātasthi-vāṃsā | nānā | haveteiti | saḥ | janāsaḥ | indraḥ