Sukta 2.12
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान । यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥
यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑ । यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्र॑: ॥
yaḥ śaśvato mahy eno dadhānān amanyamānān śarvā jaghāna | yaḥ śardhate nānu-dadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ ||
Who smote down with his missiles those who long persist in great wrong and in self-will; who does not yield to the violent challenger the ground of victory; who is the slayer of the Dasyu—he, O peoples, is Indra.
यः । शश्व॑तः । महि॑ । एनः॑ । दधा॑नान् । अम॑न्यमानान् । शर्वा॑ । ज॒घान॑ । यः । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शृ॒ध्याम् । यः । दस्योः॑ । ह॒न्ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यः । शश्वतः । महि । एनः । दधानान् । अमन्यमानान् । शर्वा । जघान । यः । शर्धते । न । अनुददाति । शृध्याम् । यः । दस्योः । हन्ता । सः । जनासः । इन्द्रः ॥yaḥ | śaśvataḥ | mahi | enaḥ | dadhānān | amanyamānān | śarvā | jaghāna | yaḥ | śardhate | na | anu-dadāti | śṛdhyām | yaḥ | dasyoḥ | hantā | saḥ | janāsaḥ | indraḥ