Sukta 2.12
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः । यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्र॑: ॥
yásyāśvā́saḥ pradíśi yásya gā́vo yásya grā́mā yásya víśve rाथā́saḥ | yáḥ sū́ryaṃ yá uṣásaṃ jajā́na yó apā́ṃ netā́ sá janāsa índraḥ ||
He whose are the horses in every direction, whose the rays (cows), whose the host of powers (villages), whose all the chariots; who brought forth the Sun and who brought forth the Dawn; who is the leader of the Waters—he, O peoples, is Indra.
यस्य॑ । अश्वा॑सः । प्र॒ऽदिशि॑ । यस्य॑ । गावः॑ । यस्य॑ । ग्रामाः॑ । यस्य॑ । विश्वे॑ । रथा॑सः । यः । सूर्य॑म् । यः । उ॒षस॑म् । ज॒जान॑ । यः । अ॒पाम् । ने॒ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यस्य । अश्वासः । प्रदिशि । यस्य । गावः । यस्य । ग्रामाः । यस्य । विश्वे । रथासः । यः । सूर्यम् । यः । उषसम् । जजान । यः । अपाम् । नेता । सः । जनासः । इन्द्रः ॥yasya | aśvāsaḥ | pra-diśi | yasya | gāvaḥ | yasya | grāmāḥ | yasya | viśve | rathāsaḥ | yaḥ | sūryam | yaḥ | uṣasam | jajāna | yaḥ | apām | netā | saḥ | janāsaḥ | indraḥ