Sukta 2.12
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः । यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्र॑: ॥
yó radhrásya coditā́ yáḥ kṛśásya yó bráhmaṇo nā́dhamānasya kīréḥ | yuktágrāvṇo yó ’vitā́ suśípras sutásomasya sá janāsa índraḥ ||
He who is the impeller of the broken and the weak; who is the helper of the striving singer-priest; who, with yoked pressing-stones, is the protector—beautiful-lipped—of the Soma that is pressed: he, O peoples, is Indra.
यः । र॒ध्रस्य॑ । चो॒दि॒ता । यः । कृ॒शस्य॑ । यः । ब्र॒ह्मणः॑ । नाध॑मानस्य । की॒रेः । यु॒क्तऽग्रा॑व्णः । यः । अ॒वि॒ता । सु॒ऽशि॒प्रः । सु॒तऽसो॑मस्य । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यः । रध्रस्य । चोदिता । यः । कृशस्य । यः । ब्रह्मणः । नाधमानस्य । कीरेः । युक्तग्राव्णः । यः । अविता । सुशिप्रः । सुतसोमस्य । सः । जनासः । इन्द्रः ॥yaḥ | radhrasya | coditā | yaḥ | kṛśasya | yaḥ | brahmaṇaḥ | nādhamānasya | kīreḥ | yukta-grāvṇaḥ | yaḥ | avitā | su-śipraḥ | suta-somasya | saḥ | janāsaḥ | indraḥ