Sukta 2.12
यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् । सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥
यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम् । सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्र॑: ॥
yáṃ smā pṛcchánti kúha séti ghorám utém ā́hur náiṣó astī́ti enam | só aryáḥ púṣṭīr víja ivā́ mināti śrád asmai dhatta sá janāsa índraḥ ||
Him they ask about—‘Where is he?’—the formidable; and they even say of him, ‘He is not.’ Yet he, the Arya, diminishes the nourishments of the adversary as a gambler (strips winnings). Place your faith in him: he, O peoples, is Indra.
यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । सः । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति॑ । ए॒न॒म् । सः । अ॒र्यः । पु॒ष्टीः । विजः॑ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यम् । स्म । पृच्छन्ति । कुह । सः । इति । घोरम् । उत । ईम् । आहुः । न । एषः । अस्ति । इति । एनम् । सः । अर्यः । पुष्टीः । विजःइव । आ । मिनाति । श्रत् । अस्मै । धत्त । सः । जनासः । इन्द्रः ॥yam | sma | pṛcchanti | kuha | saḥ | iti | ghoram | uta | īm | āhuḥ | na | eṣaḥ | asti | iti | enam | saḥ | aryaḥ | puṣṭīḥ | vijaḥ-iva | ā | mināti | śrat | asmai | dhatta | saḥ | janāsaḥ | indraḥ