Sukta 2.12
यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य । यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ । यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्र॑: ॥
yó hatvā́him áriṇāt saptá síndhūn yó gā́ udā́jad apadhā́ válasya | yó aśmánoḥ antár agníṃ jajā́na saṃvṛ́k samátsu sá janāsa índraḥ ||
He who, having slain the Serpent, set free the seven rivers; who drove upward the Rays (cows) hidden away by Vala; who generated the Fire within the two stones in the encounters—he, O peoples, is Indra.
यः । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । यः । गाः । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ । यः । अश्म॑नोः । अ॒न्तः । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यः । हत्वा । अहिम् । अरिणात् । सप्त । सिन्धून् । यः । गाः । उत्आजत् । अपधा । वलस्य । यः । अश्मनोः । अन्तः । अग्निम् । जजान । सम्वृक् । समत्सु । सः । जनासः । इन्द्रः ॥yaḥ | hatvā | ahim | ariṇāt | sapta | sindhūn | yaḥ | gāḥ | ut-ājat | apa-dhā | valasya | yaḥ | aśmanoḥ | antaḥ | agnim | jajāna | sam-vṛk | samat-su | saḥ | janāsaḥ | indraḥ