Sukta 2.12
यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात् । यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् । यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्र॑: ॥
yáḥ pṛthivī́ṃ vyáthamānām ádṛṃhat yáḥ párvatān prákupitāṃ árāmṇāt | yó antárikṣaṃ vimáme várīyo yó dyā́m astábhnāt sá janāsa índraḥ ||
He who made firm the trembling Earth, who steadied the agitated mountains; who measured out the mid-world more widely, who propped up Heaven—he, O peoples, is Indra.
यः । पृ॒थि॒वीम् । व्यथ॑मानाम् । अदृं॑हत् । यः । पर्व॑तान् । प्रऽकु॑पितान् । अर॑म्णात् । यः । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑यः । यः । द्याम् । अस्त॑भ्नात् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यः । पृथिवीम् । व्यथमानाम् । अदृंहत् । यः । पर्वतान् । प्रकुपितान् । अरम्णात् । यः । अन्तरिक्षम् । विममे । वरीयः । यः । द्याम् । अस्तभ्नात् । सः । जनासः । इन्द्रः ॥yaḥ | pṛthivīm | vyathamānām | adṛṃhat | yaḥ | parvatān | pra-kupitān | aramṇāt | yaḥ | antarikṣam | vi-mame | varīyaḥ | yaḥ | dyām | astabhnāt | saḥ | janāsaḥ | indraḥ