Sukta 2.12
यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् । यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्र॑: ॥
yó jātá evá prathamó mánasvān devó devā́n kratúnā paryábhūṣat | yásya śúṣmād ródasī abhyàsetāṃ nṛmṇásya mahnā́ sá janāsa índraḥ ||
He who, born at once as the first, the luminous-minded god, encompassed the gods by his will and power of action; from whose force Heaven and Earth were set trembling—by the greatness of his heroic might: he, O peoples, is Indra.
यः । जा॒तः । ए॒व । प्र॒थ॒मः । मन॑स्वान् । दे॒वः । दे॒वान् । क्रतु॑ना । प॒रि॒ऽअभू॑षत् । यस्य॑ । शुष्मा॑त् । रोद॑सी॒ इति॑ । अभ्य॑सेताम् । नृ॒म्णस्य॑ । म॒ह्ना । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यः । जातः । एव । प्रथमः । मनस्वान् । देवः । देवान् । क्रतुना । परिअभूषत् । यस्य । शुष्मात् । रोदसी इति । अभ्यसेताम् । नृम्णस्य । मह्ना । सः । जनासः । इन्द्रः ॥yaḥ | jātaḥ | eva | prathamaḥ | manasvān | devaḥ | devān | kratunā | pari-abhūṣat | yasya | śuṣmāt | rodasī iti | abhyasetām | nṛmṇasya | mahnā | saḥ | janāsaḥ | indraḥ