Sukta 2.12
यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् । ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥
यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत् । ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्र॑: ॥
yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat | ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ ||
Who tracked down Śambara dwelling in the mountains through forty autumns; who slew the serpent as it was swelling with force, Dānu lying in concealment—he, O peoples, is Indra.
यः । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ । अ॒नु॒ऽअवि॑न्दत् । ओ॒जा॒यमा॑नम् । यः । अहि॑म् । ज॒घान॑ । दानु॑म् । शया॑नम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥यः । शम्बरम् । पर्वतेषु । क्षियन्तम् । चत्वारिंश्याम् । शरदि । अनुअविन्दत् । ओजायमानम् । यः । अहिम् । जघान । दानुम् । शयानम् । सः । जनासः । इन्द्रः ॥yaḥ | śambaram | parvateṣu | kṣiyantam | catvāriṃśyām | śaradi | anu-avindat | ojāyamānam | yaḥ | ahim | jaghāna | dānum | śayānam | saḥ | janāsaḥ | indraḥ