Sukta 2.11
श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥
श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्य॒: स्याम॑ ते दा॒वने॒ वसू॑नाम् । इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यव॒: सिन्ध॑वो॒ न क्षर॑न्तः ॥
śrudhī hávam indra mā́ riṣaṇyaḥ syā́ma te dā́vane vásūnām | imā́ hí tvām ūrjó vardháyanti vasūyávaḥ síndhavo ná kṣárantaḥ ||
Hear the call, Indra; do not harm us. May we be fit for your giving of the riches of being. For these (pressures of) nourishment increase you—desiring the true wealth—like rivers that do not cease from flowing.
श्रु॒धि । हव॑म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम॑ । ते॒ । दा॒वने॑ । वसू॑नाम् । इ॒माः । हि । त्वाम् । ऊर्जः॑ । व॒र्धय॑न्ति । व॒सु॒ऽयवः॑ । सिन्ध॑वः । न । क्षर॑न्तः ॥श्रुधि । हवम् । इन्द्र । मा । रिषण्यः । स्याम । ते । दावने । वसूनाम् । इमाः । हि । त्वाम् । ऊर्जः । वर्धयन्ति । वसुयवः । सिन्धवः । न । क्षरन्तः ॥śrudhi | havam | indra | mā | riṣaṇyaḥ | syāma | te | dāvane | vasūnām | imāḥ | hi | tvām | ūrjaḥ | vardhayanti | vasu-yavaḥ | sindhavaḥ | na | kṣarantaḥ