Sukta 2.1
त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् । त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥
त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या॑ तनू॒रुच॑म् । त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा॑ सु॒शेव॑: पास्या॒धृष॑: ॥
tvām agne pitáraṃ iṣṭíbhir náras tvā́ṃ bhrā́trāya śámyā tanūrúcam | tvaṃ putró bhavasi yás te ávidhat tvaṃ sákhā suśévaḥ pāsi ādhṛ́ṣaḥ ||
O Agni, men by their offerings make you the Father; for the brother you become the kindly, body-bright companion. You become the Son of him who kindled you; you are the friend of good grace, and you protect without being assailable.
त्वाम् । अ॒ग्ने॒ । पि॒तर॑म् । इ॒ष्टिऽभिः॑ । नरः॑ । त्वाम् । भ्रा॒त्राय॑ । शम्या॑ । त॒नू॒ऽरुच॑म् । त्वम् । पु॒त्रः । भ॒व॒सि॒ । यः । ते॒ । अवि॑धत् । त्वम् । सखा॑ । सु॒ऽशेवः॑ । पा॒सि॒ । आ॒ऽधृषः॑ ॥त्वाम् । अग्ने । पितरम् । इष्टिभिः । नरः । त्वाम् । भ्रात्राय । शम्या । तनूरुचम् । त्वम् । पुत्रः । भवसि । यः । ते । अविधत् । त्वम् । सखा । सुशेवः । पासि । आधृषः ॥tvām | agne | pitaram | iṣṭi-bhiḥ | naraḥ | tvām | bhrātrāya | śamyā | tanū-rucam | tvam | putraḥ | bhavasi | yaḥ | te | avidhat | tvam | sakhā | su-śevaḥ | pāsi | ādhṛṣaḥ