Sukta 2.1
त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे । त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥
त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॒॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे । त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनि॑: ॥
tvám agna ṛbhúr āké namasyás tváṃ vā́jasya kṣumáto rā́ya īśiṣe | tváṃ ví bhāsy ánu dhakṣi dā́vane tváṃ viśíkṣur asi yajñám ātániḥ ||
O Agni, you are the skilful fashioner, worthy of adoration at the summit; you have mastery over the plenitude of force and the rich fullness. You shine out and you kindle along the line of right giving; you are the discerner-teacher who spreads the sacrifice wide.
त्वम् । अ॒ग्ने॒ । ऋ॒भुः । आ॒के । न॒म॒स्यः॑ । त्वम् । वाज॑स्य । क्षु॒ऽमतः॑ । रा॒यः । ई॒शि॒षे॒ । त्वम् । वि । भा॒सि॒ । अनु॑ । ध॒क्षि॒ । दा॒वने॑ । त्वम् । वि॒ऽशिक्षुः॑ । अ॒सि॒ । य॒ज्ञम् । आ॒ऽतनिः॑ ॥त्वम् । अग्ने । ऋभुः । आके । नमस्यः । त्वम् । वाजस्य । क्षुमतः । रायः । ईशिषे । त्वम् । वि । भासि । अनु । धक्षि । दावने । त्वम् । विशिक्षुः । असि । यज्ञम् । आतनिः ॥tvam | agne | ṛbhuḥ | āke | namasyaḥ | tvam | vājasya | kṣu-mataḥ | rāyaḥ | īśiṣe | tvam | vi | bhāsi | anu | dhakṣi | dāvane | tvam | vi-śikṣuḥ | asi | yajñam | ātaniḥ