Sukta 2.1
त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि । त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥
त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि । त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥
tvám agne draviṇodā́ araṃkṛté tváṃ deváḥ savitā́ ratnadhā́ asi | tváṃ bhágo nṛ́pate vásva īśiṣe tváṃ pāyúr dámē yás te ávidhat ||
You, O Agni, are the giver of plenitude to the one who is made ready; you are Savitṛ, the god who places the treasures. You are Bhaga, O lord of men, ruling over the riches; you are the guardian in the home of the one who has served you.
त्वम् । अ॒ग्ने॒ । द्र॒वि॒णः॒ऽदाः । अ॒र॒म्ऽकृते॑ । त्वम् । दे॒वः । स॒वि॒ता । र॒त्न॒ऽधाः । अ॒सि॒ । त्वम् । भगः॑ । नृ॒ऽप॒ते॒ । वस्वः॑ । ई॒शि॒षे॒ । त्वम् । पा॒युः । दमे॑ । यः । ते॒ । अवि॑धत् ॥त्वम् । अग्ने । द्रविणःदाः । अरम्कृते । त्वम् । देवः । सविता । रत्नधाः । असि । त्वम् । भगः । नृपते । वस्वः । ईशिषे । त्वम् । पायुः । दमे । यः । ते । अविधत् ॥tvam | agne | draviṇaḥ-dāḥ | aram-kṛte | tvam | devaḥ | savitā | ratna-dhāḥ | asi | tvam | bhagaḥ | nṛ-pate | vasvaḥ | īśiṣe | tvam | pāyuḥ | dame | yaḥ | te | avidhat