Sukta 2.1
त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे । त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना ॥
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥
tvám agne rudró ásuro mahó divás tváṃ śárdho mārutáṃ pṛkṣá īśiṣe | tváṃ vātáir aruṇáir yāsi śaṃgayás tváṃ pūṣā́ vidhatáḥ pāsi nú tmanā́ ||
You, O Agni, are Rudra, the mighty lord of the vast heaven; you rule the Marut-host, strong in increase. You move with the ruddy winds as a bringer of peace; you are Pūṣan, guarding the one who orders the work—by your own self-force.
त्वम् । अ॒ग्ने॒ । रु॒द्रः । असु॑रः । म॒हः । दि॒वः । त्वम् । शर्धः॑ । मारु॑तम् । पृ॒क्षः । ई॒शि॒षे॒ । त्वम् । वातैः॑ । अ॒रु॒णैः । या॒सि॒ । श॒म्ऽग॒यः । त्वम् । पू॒षा । वि॒ध॒तः । पा॒सि॒ । नु । त्मना॑ ॥त्वम् । अग्ने । रुद्रः । असुरः । महः । दिवः । त्वम् । शर्धः । मारुतम् । पृक्षः । ईशिषे । त्वम् । वातैः । अरुणैः । यासि । शम्गयः । त्वम् । पूषा । विधतः । पासि । नु । त्मना ॥tvam | agne | rudraḥ | asuraḥ | mahaḥ | divaḥ | tvam | śardhaḥ | mārutam | pṛkṣaḥ | īśiṣe | tvam | vātaiḥ | aruṇaiḥ | yāsi | śam-gayaḥ | tvam | pūṣā | vidhataḥ | pāsi | nu | tmanā