Sukta 2.1
त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥
त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्य॑म् । त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसु॑: ॥
tvám agne tváṣṭā vidhaté su-vī́ryaṃ táva gnā́vo mitra-mahaḥ sa-jā́tyam | tvám āśu-hemā rariṣe sváśvyaṃ tváṃ narā́ṃ śárdho asi purū́vasuḥ ||
You, O Agni, are Tvaṣṭṛ shaping heroic force for the one who serves; your kin-fires are of one birth, O friend of the great. You swiftly bring the golden richness, you grant the good steeds of energy; you are the host of men, wide in abundance.
त्वम् । अ॒ग्ने॒ । त्वष्टा॑ । वि॒ध॒ते । सु॒ऽवीर्य॑म् । तव॑ । ग्नावः॑ । मि॒त्र॒ऽम॒हः॒ । स॒ऽजा॒त्य॑म् । त्वम् । आ॒शु॒ऽहेमा॑ । र॒रि॒षे॒ । सु॒ऽअश्व्य॑म् । त्वम् । न॒राम् । शर्धः॑ । अ॒सि॒ । पु॒रु॒ऽवसुः॑ ॥त्वम् । अग्ने । त्वष्टा । विधते । सुवीर्यम् । तव । ग्नावः । मित्रमहः । सजात्यम् । त्वम् । आशुहेमा । ररिषे । सुअश्व्यम् । त्वम् । नराम् । शर्धः । असि । पुरुवसुः ॥tvam | agne | tvaṣṭā | vidhate | su-vīryam | tava | gnāvaḥ | mitra-mahaḥ | sa-jātyam | tvam | āśu-hemā | rariṣe | su-aśvyam | tvam | narām | śardhaḥ | asi | puru-vasuḥ