Sukta 2.1
त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः । त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥
त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्य॑: । त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुज॒द त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥
tvám agne rājā́ váruṇo dhṛtá-vratas tváṃ mitró bhavasi dasmá ī́ḍyaḥ | tvám aryamā́ sátpatir yásya saṃbhújad tvám áṃśo vidáthē deva bhājayúḥ ||
You, O Agni, are the king Varuṇa, firm in the law of your vow; you become Mitra, the admirable one worthy of invocation. You are Aryaman, the true lord who grants shared enjoyment; you are Aṃśa in the assembly, O god, distributing the portions—apportioning the soul’s rightful share.
त्वम् । अ॒ग्ने॒ । राजा॑ । वरु॑णः । धृ॒तऽव्र॑तः । त्वम् । मि॒त्रः । भ॒व॒सि॒ । द॒स्मः । ईड्यः॑ । त्वम् । अ॒र्य॒मा । सत्ऽप॑तिः । यस्य॑ । स॒म्ऽभुज॑म् । त्वम् । अंशः॑ । वि॒दथे॑ । दे॒व॒ । भा॒ज॒युः ॥त्वम् । अग्ने । राजा । वरुणः । धृतव्रतः । त्वम् । मित्रः । भवसि । दस्मः । ईड्यः । त्वम् । अर्यमा । सत्पतिः । यस्य । सम्भुजम् । त्वम् । अंशः । विदथे । देव । भाजयुः ॥tvam | agne | rājā | varuṇaḥ | dhṛta-vrataḥ | tvam | mitraḥ | bhavasi | dasmaḥ | īḍyaḥ | tvam | aryamā | sat-patiḥ | yasya | sam-bhujam | tvam | aṃśaḥ | vidathe | deva | bhājayuḥ