Sukta 2.1
त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥
त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्य॑: । त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥
tvám agne índro vṛṣabháḥ satā́m asi tváṃ víṣṇur uru-gāyó namasyáḥ | tváṃ brahmā́ rayivíd brahmaṇas pate tváṃ vidhártaḥ sacase púraṃdhyā ||
You, O Agni, are Indra, the bull of the luminous ones; you are Vishnu, wide-striding and worthy of adoration. You are the brahman, knower and giver of plenitude; O lord of the soul’s word, you join with the power that holds and arranges, with the fullness of discerning intelligence.
त्वम् । अ॒ग्ने॒ । इन्द्रः॑ । वृ॒ष॒भः । स॒ताम् । अ॒सि॒ । त्वम् । विष्णुः॑ । उ॒रु॒ऽगा॒यः । न॒म॒स्यः॑ । त्वम् । ब्र॒ह्मा । र॒यि॒ऽवित् । ब्र॒ह्म॒णः॒ । प॒ते॒ । त्वम् । वि॒ध॒र्त॒रिति॑ विऽधर्तः । स॒च॒से॒ । पुर॑म्ऽध्या ॥त्वम् । अग्ने । इन्द्रः । वृषभः । सताम् । असि । त्वम् । विष्णुः । उरुगायः । नमस्यः । त्वम् । ब्रह्मा । रयिवित् । ब्रह्मणः । पते । त्वम् । विधर्तरिति विधर्तः । सचसे । पुरम्ध्या ॥tvam | agne | indraḥ | vṛṣabhaḥ | satām | asi | tvam | viṣṇuḥ | uru-gāyaḥ | namasyaḥ | tvam | brahmā | rayi-vit | brahmaṇaḥ | pate | tvam | vidhartaritivi-dhartaḥ | sacase | puram-dhyā