Sukta 2.1
त्वं तान्त्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥
त्वं तान्त्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे । पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥
tváṃ tā́nt saṃ ca práti ca asi majmánāgne sujāta prá ca deva ricyase | pṛkṣó yád átra mahinā́ ví te bhúvad ánu dyā́vāpṛthivī ródasī ubhé ||
You are at once gathered and confronting, by your greatness, O well-born Agni; and you, O god, overflow beyond measure. When here by your might your strengthening becomes manifest, both Heaven and Earth, the two worlds, follow after your widening.
त्वम् । तान् । सम् । च॒ । प्रति॑ । च॒ । अ॒सि॒ । म॒ज्मना॑ । अग्ने॑ । सु॒ऽजा॒त॒ । प्र । च॒ । दे॒व॒ । रि॒च्य॒से॒ । पृ॒क्षः । यत् । अत्र॑ । म॒हि॒ना । वि । ते॒ । भुव॑त् । अनु॑ । द्यावा॑पृथि॒वी इति॑ । रोद॑सी इति॑ । उ॒भे इति॑ ॥त्वम् । तान् । सम् । च । प्रति । च । असि । मज्मना । अग्ने । सुजात । प्र । च । देव । रिच्यसे । पृक्षः । यत् । अत्र । महिना । वि । ते । भुवत् । अनु । द्यावापृथिवी इति । रोदसी इति । उभे इति ॥tvam | tān | sam | ca | prati | ca | asi | majmanā | agne | su-jāta | pra | ca | deva | ri cyase | pṛkṣaḥ | yat | atra | mahinā | vi | te | bhuvat | anu | dyāvāpṛthivī iti | rodasī iti | ubhe iti