Sukta 2.1
ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः । अस्माञ्च ताँश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥
ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रय॑: । अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥
yé stotṛ́bhyo góagrām áśvapeśasam agne rātím upasṛjánti sūráyaḥ | asmā́ṃś ca tā́ṃś ca prá hí néṣi vásya ā́ bṛhád vadema vidáthe suvī́rāḥ ||
Those wise ones who set forth for the singers the gift rich in light-cattle and force-horses, O Agni—lead both them and us forward into the better good. May we speak the Vast in the assembly, endowed with heroic energies.
ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ । अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥ये । स्तोतृभ्यः । गोअग्राम् । अश्वपेशसम् । अग्ने । रातिम् । उपसृजन्ति । सूरयः । अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सुवीराः ॥ye | stotṛ-bhyaḥ | go--agrām | aśva-peśasam | agne | rātim | upa-sṛjanti | sūrayaḥ | asmān | ca | tān | ca | pra | hi | neṣi | vasyaḥ | ā | bṛhat | vadema | vidathe | su-vīrāḥ