Sukta 2.1
त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् । त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥
त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । त्वया॒ मर्ता॑सः स्वदन्त आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचि॑: ॥
tvé agne víśve amṛ́tāso adrúha āsā́ devā́ havír adanty ā́hutam | tváyā mártāsaḥ svadante āsutíṃ tváṃ gárbho vīrudhā́ṃ jajñiṣe śúciḥ ||
In you, O Agni, all the deathless and undeceiving gods partake of the offered oblation. By you mortals taste the pressed delight; you, pure one, are born as the embryo of the growing plants.
त्वे इति॑ । अ॒ग्ने॒ । विश्वे॑ । अ॒मृता॑सः । अ॒द्रुहः॑ । आ॒सा । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् । त्वया॑ । मर्ता॑सः । स्व॒द॒न्ते॒ । आ॒ऽसु॒तिम् । त्वम् । गर्भः॑ । वी॒रुधा॑म् । ज॒ज्ञि॒षे॒ । शुचिः॑ ॥त्वे इति । अग्ने । विश्वे । अमृतासः । अद्रुहः । आसा । देवाः । हविः । अदन्ति । आहुतम् । त्वया । मर्तासः । स्वदन्ते । आसुतिम् । त्वम् । गर्भः । वीरुधाम् । जज्ञिषे । शुचिः ॥tve iti | agne | viśve | amṛtāsaḥ | adruhaḥ | āsā | devāḥ | haviḥ | adanti | āhutam | tvayā | martāsaḥ | svadante | āsutim | tvam | garbhaḥ | vīrudhām | jajñiṣe | śuciḥ