Sukta 2.1
त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे । त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं१॒॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे । त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ॥
tvām agna ādityā́sa ā́syam tvā́ṃ jihvā́ṃ śúcayaś cakrire kave | tvā́ṃ rātisā́co adhvaréṣu saścire tvé devā́ havír adanty ā́hutam ||
O Agni, the Ādityas have made you their mouth; the pure ones have made you their tongue, O seer. The companions of the giving press close to you in the sacrifices; in you the gods taste and partake of the offered oblation.
त्वाम् । अ॒ग्ने॒ । आदि॒त्यासः॑ । आ॒स्य॑म् । त्वाम् । जि॒ह्वाम् । शुच॑यः । च॒क्रि॒रे॒ । क॒वे॒ । त्वाम् । रा॒ति॒ऽसाचः॑ । अ॒ध्व॒रेषु॑ । स॒श्चि॒रे॒ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ॥त्वाम् । अग्ने । आदित्यासः । आस्यम् । त्वाम् । जिह्वाम् । शुचयः । चक्रिरे । कवे । त्वाम् । रातिसाचः । अध्वरेषु । सश्चिरे । त्वे इति । देवाः । हविः । अदन्ति । आहुतम् ॥tvām | agne | ādityāsaḥ | āsyam | tvām | jihvām | śucayaḥ | cakrire | kave | tvām | rāti-sācaḥ | adhvareṣu | saścire | tve iti | devāḥ | haviḥ | adanti | āhutam