Sukta 2.1
त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः । त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥
त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रिय॑: । त्वं वाज॑: प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥
tvám agne subhṛ́ta uttamáṃ váyas táva spā́rhe várṇa ā́ saṃdṛ́śi śríyaḥ | tváṃ vā́jaḥ pratáraṇo bṛhánn asi tváṃ rayír bahuló viśvátas pṛthúḥ ||
O Agni, well-supported, you are the highest vital force; in your desirable radiance the splendours come to clear vision. You are the plenitude that carries us across; you are the rich abundance, wide on every side.
त्वम् । अ॒ग्ने॒ । सुऽभृ॑तः । उ॒त्ऽत॒मम् । वयः॑ । तव॑ । स्पा॒र्हे । वर्णे॑ । आ । स॒म्ऽदृशि॑ । श्रियः॑ । त्वम् । वाजः॑ । प्र॒ऽतर॑णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः॑ । पृ॒थुः ॥त्वम् । अग्ने । सुभृतः । उत्तमम् । वयः । तव । स्पार्हे । वर्णे । आ । सम्दृशि । श्रियः । त्वम् । वाजः । प्रतरणः । बृहन् । असि । त्वम् । रयिः । बहुलः । विश्वतः । पृथुः ॥tvam | agne | su-bhṛtaḥ | ut-tamam | vayaḥ | tava | spārhe | varṇe | ā | sam-dṛśi | śriyaḥ | tvam | vājaḥ | pra-taraṇaḥ | bṛhan | asi | tvam | rayiḥ | bahulaḥ | viśvataḥ | pṛthuḥ