Sukta 10.99
एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम् । स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः ॥
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् । स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभा॑: ॥
evā́ mahó asura vakṣáthāya vamrakáḥ paḍbhír úpa sarpad índram | sá iyānó karati svastím asmai íṣam ūrjáṁ su-kṣitíṁ víśvam ā́bhāḥ ||
Thus, O mighty Asura, for thy bearing and increase, the ant crawls up to Indra with its feet. He, advancing, makes for him well-being—impulse and plenitude of energy, good dwelling, and brings all radiances.
ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् । सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥एव । महः । असुर । वक्षथाय । वम्रकः । पट्भिः । उप । सर्पत् । इन्द्रम् । सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सुक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥eva | mahaḥ | asura | vakṣathāya | vamrakaḥ | paṭ-bhiḥ | upa | sarpat | indram | saḥ | iyānaḥ | karati | svastim | asmai | iṣam | ūrjam | su-kṣitim | viśvam | ā | abhār ity abhāḥ