Sukta 10.99
अयं दशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो न मायी । अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् ॥
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी । अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥
ayáṁ daśasyán naryébhir asya dasmó devébhir váruṇo ná māyī́ | ayáṁ kanī́na ṛtupā́ avedi amímīta arárum yáś cátuṣpāt ||
This one, winning service from the manly powers, is the wondrous one among the gods, like Varuṇa—master of effective workings. This youthful guardian of the seasons has perceived; he has measured out the firm support that stands on four feet.
अ॒यम् । द॒श॒स्यन् । नर्ये॑भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः॑ । वरु॑णः । न । मा॒यी । अ॒यम् । क॒नीनः॑ । ऋ॒तु॒ऽपाः । अ॒वे॒दि॒ । अमि॑मीत । अ॒ररु॑म् । यः । चतुः॑ऽपात् ॥अयम् । दशस्यन् । नर्येभिः । अस्य । दस्मः । देवेभिः । वरुणः । न । मायी । अयम् । कनीनः । ऋतुपाः । अवेदि । अमिमीत । अररुम् । यः । चतुःपात् ॥ayam | daśasyan | naryebhiḥ | asya | dasmaḥ | devebhiḥ | varuṇaḥ | na | māyī | ayam | kanīnaḥ | ṛtu-pāḥ | avedi | amimīta | ararum | yaḥ | catuḥ-pāt