Sukta 10.98
त्वां पूर्व ऋषयो गीर्भिरायन्त्वामध्वरेषु पुरुहूत विश्वे । सहस्राण्यधिरथान्यस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥
त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ । स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥
tvā́ṃ pū́rva ṛ́ṣayo gīrbhír ā́yan tvā́m adhvaréṣu puruhūta víśve | sahasrā́ṇy ádhirathāny asmè ā́ nó yajñáṃ rohidáśvópa yāhi ||
The seers of old came to you with their hymns; all invoked you in the sacrifices, O much-called. Bring to us the thousandfold chariots of movement; come to our yajña, O you whose steeds are ruddy—arrive with the swift force that bears the light into the work.
त्वाम् । पूर्वे॑ । ऋष॑यः । गीः॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ । स॒हस्रा॑णि । अधि॑ऽरथानि । अ॒स्मे इति॑ । आ । नः॒ । य॒ज्ञम् । रि॒हि॒त्ऽअ॒श्वा । उप॑ । या॒हि॒ ॥त्वाम् । पूर्वे । ऋषयः । गीःभिः । आयन् । त्वाम् । अध्वरेषु । पुरुहूत । विश्वे । सहस्राणि । अधिरथानि । अस्मे इति । आ । नः । यज्ञम् । रिहित्अश्वा । उप । याहि ॥tvām | pūrve | ṛṣayaḥ | gīḥ-bhiḥ | āyan | tvām | adhvareṣu | puru-hūta | viśve | sahasrāṇi | adhi-rathāni | asme iti | ā | naḥ | yajñam | rihit-aśvā | upa | yāhi