Sukta 10.98
यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ॥
यं त्वा॑ दे॒वापि॑: शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्य॑: समी॒धे । विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑न॒: प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ॥
yáṃ tvā devā́piḥ śuśucā́nó agna ārṣṭiṣeṇó manuṣyàḥ samī́dhe | víśvebhir deváir anumádyamānaḥ prá parjányam īraya vṛṣṭimántam ||
O Agni, whom Devāpi, the human Ārṣṭiṣeṇa, kindles in a blaze—approved and gladdened by all the gods—do you set Parjanya in motion, the bearer of rain; awaken the descending abundance that fulfills the earth of the being.
यम् । त्वा॒ । दे॒वऽआ॑पिः । शु॒शु॒चा॒नः । अ॒ग्ने॒ । आ॒र्ष्टि॒षे॒णः । म॒नु॒ष्यः॑ । स॒म्ऽई॒धे । विश्वे॑भिः । दे॒वैः । अ॒नु॒ऽम॒द्यमा॑नः । प्र । प॒र्जन्य॑म् । ई॒र॒य॒ । वृ॒ष्टि॒ऽमन्त॑म् ॥यम् । त्वा । देवआपिः । शुशुचानः । अग्ने । आर्ष्टिषेणः । मनुष्यः । सम्ईधे । विश्वेभिः । देवैः । अनुमद्यमानः । प्र । पर्जन्यम् । ईरय । वृष्टिमन्तम् ॥yam | tvā | deva-āpiḥ | śuśucānaḥ | agne | ārṣṭiṣeṇaḥ | manuṣyaḥ | sam-īdhe | vi śvebhiḥ | devaiḥ | anu-madyamānaḥ | pra | parjanyam | īraya | vṛṣṭi-mantam