Sukta 10.98
एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्रा । तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितो रिरीहि ॥
ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ । तेभि॑र्वर्धस्व त॒न्व॑: शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥
etā́ny agne navatír nava tvé ā́hutāny ádhirathā sahásrā | tébhir vardhasva tanvàḥ śūra pū́rvīr divó no vṛ́ṣṭim iṣitó rirīhi ||
These—ninety-nine thousand chariot-offerings—are poured into you, O Agni. By them grow in your bodies of power, O hero, many and ancient; then, sent forth by your impulsion, bring us the rain from heaven—release the fullness that has been held back.
ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिः । नव॑ । त्वे इति॑ । आऽहु॑तानि । अधि॑ऽरथा । स॒हस्रा॑ । तेभिः॑ । व॒र्ध॒स्व॒ । त॒न्वः॑ । शू॒र॒ । पू॒र्वीः । दि॒वः । नः॒ । वृ॒ष्टिम् । इ॒षि॒तः । रि॒री॒हि॒ ॥एतानि । अग्ने । नवतिः । नव । त्वे इति । आहुतानि । अधिरथा । सहस्रा । तेभिः । वर्धस्व । तन्वः । शूर । पूर्वीः । दिवः । नः । वृष्टिम् । इषितः । रिरीहि ॥etāni | agne | navatiḥ | nava | tve iti | āhutāni | adhi-rathā | sahasrā | tebhiḥ | vardhasva | tanvaḥ | śūra | pūrvīḥ | divaḥ | naḥ | vṛṣṭim | iṣitaḥ | rirīhi