Sukta 10.98
यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥
यद्दे॒वापि॒: शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् । दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥
yád devā́piḥ śáṃtanave puróhito hótrāya vṛtáḥ kṛpáyann ádīḍhet | deva-śrútaṃ vṛṣṭi-vánim rárāṇo bṛ́haspátir vā́cam asmā ayacchat ||
When Devāpi, chosen as the priest for Śaṃtanū, kindled the fire of the rite with compassionate intent, rejoicing in the god-heard word that wins the rain, Brihaspati granted him the speech—so the needed descent could be called and made effective.
यत् । दे॒वऽआ॑पिः । शम्ऽत॑नवे । पु॒रःऽहि॑तः । हो॒त्राय॑ । वृ॒तः । कृ॒पय॑न् । अदी॑धेत् । दे॒व॒ऽश्रुत॑म् । वृ॒ष्टि॒ऽवनि॑म् । ररा॑णः । बृह॒स्पतिः॑ । वाच॑म् । अ॒स्मै॒ । अ॒य॒च्छ॒त् ॥यत् । देवआपिः । शम्तनवे । पुरःहितः । होत्राय । वृतः । कृपयन् । अदीधेत् । देवश्रुतम् । वृष्टिवनिम् । रराणः । बृहस्पतिः । वाचम् । अस्मै । अयच्छत् ॥yat | deva-āpiḥ | śam-tanave | puraḥ-hitaḥ | hotrāya | vṛtaḥ | kṛpayan | adīdhet | deva-śrutam | vṛṣṭi-vanim | rarāṇaḥ | bṛhaspatiḥ | vācam | asmai | ayacchat