Sukta 10.98
आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् । स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥
आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् । स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥
ārṣṭiṣeṇó hótram ṛ́ṣir níṣīdán devā́pir deva-sumatíṃ cikitvā́n | sá úttarasmād ádharam samudrám apó divyā́ asṛjad varṣyā́ abhí ||
Ārṣṭiṣeṇa, the seer, sat down in the hotṛ-seat—Devāpi, knowing the godward right-mindedness. From the upper sea to the lower sea he released the heavenly waters, the rain-waters, to stream forth—opening the blocked currents between heights and depths of the being.
आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः॑ । नि॒ऽसीद॑न् । दे॒वऽआ॑पिः । दे॒व॒ऽसु॒म॒तिम् । चि॒कि॒त्वान् । सः । उत्ऽत॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः॑ । अ॒भि ॥आर्ष्टिषेणः । होत्रम् । ऋषिः । निसीदन् । देवआपिः । देवसुमतिम् । चिकित्वान् । सः । उत्तरस्मात् । अधरम् । समुद्रम् । अपः । दिव्याः । असृजत् । वर्ष्याः । अभि ॥ārṣṭiṣeṇaḥ | hotram | ṛṣiḥ | ni-sīdan | deva-āpiḥ | deva-sumatim | cikitvān | saḥ | ut-tarasmāt | adharam | samudram | apaḥ | divyāḥ | asṛjat | varṣyāḥ | abhi