Sukta 10.98
आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् । नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥
आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् । नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥
ā nó drapsā́ mádhumanto viśántv índra dehy ádhirathaṃ sahásram | ní ṣīda hótram ṛtuthā́ yajasva devā́n devāpe havíṣā saparya ||
May honeyed drops enter into us; O Indra, grant the thousandfold chariot of force. Sit down in the priestly seat; sacrifice in the right seasons and rhythms; worship the gods with the offering, O Devāpi—so the powers may be perfectly served and the descent secured.
आ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् । नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥आ । नः । द्रप्साः । मधुमन्तः । विशन्तु । इन्द्र । देहि । अधिरथम् । सहस्रम् । नि । सीद । होत्रम् । ऋतुथा । यजस्व । देवान् । देवआपे । हविषा । सपर्य ॥ā | naḥ | drapsāḥ | madhu-mantaḥ | viśantu | indra | dehi | adhi-ratham | sahasram | ni | sīda | hotram | ṛtu-thā | yajasva | devān | deva-āpe | haviṣā | sapayar