Sukta 10.98
अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिराम् । यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो मधुमाँ आ विवेश ॥
अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् । यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥
asmé dhehi dyumátīṃ vā́cam āsán bṛ́haspate anamīvā́m iṣirā́m | yayā vṛ́ṣṭiṃ śáṃtanave vánāva divó drapsó mádhumān ā́ viveśa ||
In us, O Brihaspati, place the luminous speech, firmly seated, free from hurt and swift in its impulsion—by which we may win the rain of increase for peaceful extension; and the honeyed drop of heaven may enter into our being.
अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् । बृह॑स्पते । अ॒न॒मी॒वाम् । इ॒षि॒राम् । यया॑ । वृ॒ष्टिम् । शम्ऽत॑नवे । वना॑व । दि॒वः । द्र॒प्सः । मधु॑ऽमान् । आ । वि॒वे॒श॒ ॥अस्मे इति । धेहि । द्युमतीम् । वाचम् । आसन् । बृहस्पते । अनमीवाम् । इषिराम् । यया । वृष्टिम् । शम्तनवे । वनाव । दिवः । द्रप्सः । मधुमान् । आ । विवेश ॥asme iti | dhehi | dyu-matīm | vācam | āsan | bṛhaspate | anamīvām | iṣirām | yayā | vṛṣṭim | śam-tanave | vanāva | divaḥ | drapsaḥ | madhu-mān | ā | viveśa