Sukta 10.98
आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् । प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥
आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गच्छत् । प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥
ā devó dūtó ajiráś cikitvā́n tvád devāpe abhí mām agacchat | pratīcīnáḥ práti mām ā vavṛtsva dádhāmi te dyumátīṃ vā́cam āsán ||
Let the divine messenger, swift and discerning, come to me from you, O Devāpi. Turn back toward me, facing me; I establish for you a luminous speech that seats itself within—so the inner rite may be rightly guided.
आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् । प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥आ । देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देवआपे । अभि । माम् । अगच्छत् । प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते । द्युमतीम् । वाचम् । आसन् ॥ā | devaḥ | dūtaḥ | ajiraḥ | cikitvān | tvat | deva-āpe | abhi | mām | agacchat | pratīcīnaḥ | prati | mām | ā | vavṛtsva | dadhāmi | te | dyu-matīm | vācam | āsan