Sukta 10.98
बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा । आदित्यैर्वा यद्वसुभिर्मरुत्वान्त्स पर्जन्यं शंतनवे वृषाय ॥
बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥
bṛ́haspate práti me devátām ihi mitró vā yád váruṇo vā́si pūṣā́ | ādityáir vā yád vásubhir marútvān tsá parjányam śáṃtanave vṛṣāya ||
O Brihaspati, come facing my invocation and take up the divine power here: whether you become Mitra, or Varuṇa, or Pūṣan; whether with the Ādityas, or with the Vasus, or as one who bears the Maruts—then awaken Parjanya, the force of fruitful rain, to pour for Śaṃtanū’s increase and for the soul’s virile growth.
बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । अ॒सि॒ । पू॒षा । आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥बृहस्पते । प्रति । मे । देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा । आदित्यैः । वा । यत् । वसुभिः । मरुत्वान् । सः । पर्जन्यम् । शम्तनवे । वृषय ॥bṛhaspate | prati | me | devatām | ihi | mitraḥ | vā | yat | varuṇaḥ | vā | asi | pūṣā | ādityaiḥ | vā | yat | vasu-bhiḥ | marutvān | saḥ | parjanyam | śam-tanave | vṛṣaya