Sukta 10.98
एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इन्द्राय भागम् । विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥
ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् । वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥
etā́ny agne navatíṃ sahásrā sáṃ prá yaccha vṛ́ṣṇe índrāya bhāgám | vidvā́n pathá ṛtuśó devayā́nān ápy aulā́naṃ diví devéṣu dhehi ||
These, O Agni, ninety-thousand energies—gather and hand them forward as a rightful share to Indra, the puissant Force. Knowing the paths that move by the seasons, the godward ways, set also our offering in Heaven among the Gods—established in the luminous world.
एतानि॑ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा॑ । सम् । प्र । य॒च्छ॒ । वृष्णे॑ । इन्द्रा॑य । भा॒गम् । वि॒द्वान् । प॒थः । ऋ॒तु॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । औ॒ला॒नम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥एतानि । अग्ने । नवतिम् । सहस्रा । सम् । प्र । यच्छ । वृष्णे । इन्द्राय । भागम् । विद्वान् । पथः । ऋतुशः । देवयानान् । अपि । औलानम् । दिवि । देवेषु । धेहि ॥etāni | agne | navatim | sahasrā | sam | pra | yaccha | vṛṣṇe | indrāya | bhāgam | vi dvān | pathaḥ | ṛtu-śaḥ | deva-yānān | api | aulānam | divi | deveṣu | dhehi