Sukta 10.98
अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥
अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध । अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥
agne bā́dhasva ví mṛ́dho ví durgáhā́pāmīvā́m ápa rákṣāṃsi sedha | asmā́t samudrā́d bṛható divó no 'pā́ṃ bhū́mānam úpa naḥ sṛjehá ||
O Agni, smite and drive away the hostile pressures; drive away the hard-to-pass afflictions; thrust back the devouring Powers of darkness. From this vast ocean, from the wide Heaven, release for us here the plenitude of the Waters—let it come near to us.
अग्ने॑ । बाध॑स्व । वि । मृधः॑ । वि । दुः॒ऽगहा॑ । अप॑ । अमी॑वाम् । अप॑ । रक्षां॑सि । से॒ध॒ । अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान॑म् । उप॑ । नः॒ । सृ॒ज॒ । इ॒ह ॥अग्ने । बाधस्व । वि । मृधः । वि । दुःगहा । अप । अमीवाम् । अप । रक्षांसि । सेध । अस्मात् । समुद्रात् । बृहतः । दिवः । नः । अपाम् । भूमानम् । उप । नः । सृज । इह ॥agne | bādhasva | vi | mṛdhaḥ | vi | duḥ-gahā | apa | amīvām | apa | rakṣāṃsi | sedha | asmāt | samudrāt | bṛhataḥ | divaḥ | naḥ | apām | bhūmānam | upa | naḥ | sṛja | iha