Sukta 10.97
इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः । सीराः पतत्रिणीः स्थन यदामयति निष्कृथ ॥
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणी॑: स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥
íṣkṛtir nā́ma vo mātā́tho yūyáṁ stha níṣkṛtīḥ | sīrā́ḥ patatríṇīḥ sthana yád ā́mayati níṣkṛtha ||
‘Iṣkṛti’ is said to be your Mother; and you are the ‘Niskṛtis’, the powers of release. Be swift and winged in your going: when something brings affliction, draw it out and cast it away.
इष्कृ॑तिः । नाम॑ । वः॒ । मा॒ता । अथो॒ इति॑ । यू॒यम् । स्थ॒ । निःऽकृ॑तीः । सी॒राः । प॒त॒त्रिणीः॑ । स्थ॒न॒ । यत् । आ॒मय॑ति । निः । कृ॒थ॒ ॥इष्कृतिः । नाम । वः । माता । अथो इति । यूयम् । स्थ । निःकृतीः । सीराः । पतत्रिणीः । स्थन । यत् । आमयति । निः । कृथ ॥iṣkṛtiḥ | nāma | vaḥ | mātā | atho iti | yūyam | stha | niḥ-kṛtīḥ | sīrāḥ | patatriṇīḥ | sthana | yat | āmayati | niḥ | kṛtha