Sukta 10.97
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते । धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥
úcchuṣmā́ oṣádhīnāṁ gā́vo goṣṭhā́d iverate | dhánaṁ saniṣyántīnām ātmā́naṁ táva pūruṣa ||
The might of the healing powers rises up like cows surging forth from the stall; they seek to win the true wealth—yes, the very self—for you, O Purusha within.
उत् । शुष्माः॑ । ओष॑धीनाम् । गावः॑ । गो॒ष्ठात्ऽइ॑व । ई॒र॒ते॒ । धन॑म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥उत् । शुष्माः । ओषधीनाम् । गावः । गोष्ठात्इव । ईरते । धनम् । सनिष्यन्तीनाम् । आत्मानम् । तव । पुरुष ॥ut | śuṣmāḥ | oṣadhīnām | gāvaḥ | goṣṭhāt-iva | īrate | dhanam | saniṣyantīnām | ātmānam | tava | puruṣa