Sukta 10.97
अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः । ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥
अति॒ विश्वा॑: परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धी॒: प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रप॑: ॥
áti víśvāḥ pariṣṭhā́ sténa iva vrajáṁ akramuḥ | oṣádhīḥ prá acucyavur yát kíṁ ca tanvò rapáḥ ||
Across all the enclosing bounds, like a thief crossing into the pen, the healing powers press forward; whatever stain or hurt is in the body, they shake it loose and drive it out.
अति॑ । विश्वाः॑ । प॒रि॒ऽस्थाः । स्ते॒नःऽइ॑व । व्र॒जम् । अ॒क्र॒मुः॒ । ओष॑धीः । प्र । अ॒चु॒च्य॒वुः॒ । यत् । किम् । च॒ । त॒न्वः॑ । रपः॑ ॥अति । विश्वाः । परिस्थाः । स्तेनःइव । व्रजम् । अक्रमुः । ओषधीः । प्र । अचुच्यवुः । यत् । किम् । च । तन्वः । रपः ॥ati | viśvāḥ | pari-sthāḥ | stenaḥ-iva | vrajam | akramuḥ | oṣadhīḥ | pra | acucyavuḥ | yat | kim | ca | tanvaḥ | rapaḥ