Sukta 10.97
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् । आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥
अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥
aśvāvatī́ṁ somāvatī́m ūrjáyantīm úd ojasam | ā́vitsi sárvā oṣádhīr asmā́ ariṣṭátātaye ||
Find for him all the healing powers—those rich in force, rich in Soma-delight, increasing the sap of energy and lifting up the strength—so that he may arrive at an unbroken wholeness.
अ॒श्व॒ऽव॒तीम् । स॒म॒ऽव॒तीम् । ऊ॒र्जय॑न्तीम् । उत्ऽओ॑जसम् । आ । अ॒वि॒त्सि॒ । सर्वाः॑ । ओष॑धीः । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥अश्ववतीम् । समवतीम् । ऊर्जयन्तीम् । उत्ओजसम् । आ । अवित्सि । सर्वाः । ओषधीः । अस्मै । अरिष्टतातये ॥aśva-vatīm | sama-vatīm | ūrjayantīm | ut-ojasam | ā | avitsi | sarvāḥ | oṣadhīḥ | asmai | ariṣṭa-tātaye