Sukta 10.97
यत्रौषधीः समग्मत राजानः समिताविव । विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥
यत्रौष॑धीः स॒मग्म॑त॒ राजा॑न॒: समि॑ताविव । विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥
yátrā́uṣadhīḥ samágmata rājā́naḥ sámitāv iva | vípraḥ sá ucyate bhiṣág rakṣohā́mīvācátanaḥ ||
Where the healing powers come together like kings in council, that illumined knower is called the healer—slayer of the dark forces, the one who drives out affliction.
यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव । विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥यत्र । ओषधीः । सम्अग्मत । राजानः । समितौइव । विप्रः । सः । उच्यते । भिषक् । रक्षःहा । अमीवचातनः ॥yatra | oṣadhīḥ | sam-agmata | rājānaḥ | samitau-iva | vipraḥ | saḥ | ucyate | bhiṣak | rakṣaḥ-hā | amīva-cātanaḥ