Sukta 10.97
अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥
aśvatthé vo niṣádanaṁ parṇé vo vasatíṣ-kṛtā́ | gobhā́ja ít kilā́satha yát sanávatha púruṣam ||
In the aśvattha is your seat, in the leaf your dwelling is made. You are indeed sharers of the rays, when you win and recover the Purusha (the true Person) within.
अ॒श्व॒त्थे । वः॒ । नि॒ऽसद॑नम् । प॒र्णे । वः॒ । व॒स॒तिः । कृ॒ता । गो॒ऽभाजः॑ । इत् । किल॑ । अ॒स॒थ॒ । यत् । स॒नव॑थ । पुरु॑षम् ॥अश्वत्थे । वः । निसदनम् । पर्णे । वः । वसतिः । कृता । गोभाजः । इत् । किल । असथ । यत् । सनवथ । पुरुषम् ॥aśvatthe | vaḥ | ni-sadanam | parṇe | vaḥ | vasatiḥ | kṛtā | go--bhājaḥ | it | kila | asatha | yat | sanavatha | puruṣam